श्रीशङ्कराचर्यविरचितम् गुर्वष्टकम्
शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १॥
The body may be beautiful, as also the wife, the fame may be wonderfully splendid, the wealth may be similar in measure to Mt. Meru, if the mind is not fixed to Guru’s lotus feet, what of that? What of that? What of that? What of that?
Notes: शरीरम् Body सुरूपम् Beautiful तथा वा so also कलत्रम् wife यशः fame चारु splendor चित्रम् wonderful धनम् wealth मेरु-तुल्यम् similar to Mt. Meru मनः Mind चेत् if न not लग्नम् fixed गुरोः Guru’s अङ्घ्रि-पद्मे lotus feet ततः of that किम् what ततः of that किम् what ततः of that किम् what ततः of that किम् what
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवा सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ २॥
One may possess wife, wealth, son, grandson and so on, home, relatives, indeed all these things, if the mind is not fixed to Guru’s lotus feet, what of that? What of that? What of that? What of that?
Notes: कलत्रम् wife धनम् wealth पुत्र-पौत्र-आदि son, grandson and so on सर्वम् all गृहम् home बान्धवाः relatives सर्वम् all एतत् these हि indeed जातम् possessed. मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् are similar as earlier.
षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ३॥
One may have memorized all the vedas with its six limbs and have the knowledge of scriptures, one may have the poetic skills and may write prose and beautiful poetry, yet, if the mind is not fixed to Guru’s lotus feet, what of that? What of that? What of that? What of that?
Notes: षडङ्ग-आदि-वेदः The vedas with its six limbs मुखे (in) the mouth शास्त्र-विद्या the knowledge of scriptures कवित्व-आदि poetic skill etc. गद्यम् prose सुपद्यम् beautiful poetry करोति does. मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् are similar as earlier.
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ४॥
One may be respected in foreign lands, rich in one’s own country, delighting in the conduct of good works and not in others (i.e. in bad conduct), if the mind is not fixed to Guru’s lotus feet, what of that? What of that? What of that? What of that?
Notes: विदेशेषु In foreign lands मान्यः respected स्वदेशेषु in own country धन्यः rich सत्-आचार-वृत्तेषु in the good conduct मत्तः delighted न not च and अन्यः other मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् are similar as earlier.
क्षमामण्डले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ५॥
Those whose lotus feet are served by the multitude of kings of kings of the earthly territories, if their mind is not fixed on the Guru’s lotus feet, what of that? What of that? What of that? What of that?
Notes: क्षमा-मण्डले territories of earth भूप-भूपाल-वृन्दैः multitude of kings of kings सदा always सेवितम् served यस्य whose पाद-अरविन्दम् lotus feet मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् as earlier.
यशो मे गतं दिक्षु दानप्रतापाज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ६॥
My fame may have reached all the directions through the glory of my charities, but if the mind is not fixed to the lotus feet of the guru by whose grace all the objects of the world are in the hand, what of that? What of that? What of that? What of that?
Notes: यशः fame मे my गतम् reached दिक्षु in the regions/directions दान-प्रतापात् by the glory of charities जगत्-वस्तु the objects of the world सर्वम् all करे in the hand यत्-प्रसादात् by whose grace मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् as earlier.
न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ७॥
One’s mind may not long for enjoyments, or for yoga or for many sacrifices or for the face of beautiful women, or for wealth, if the mind is not fixed on the lotus feet of the Guru, what of that? What of that? What of that? What of that?
Notes: न not भोगे in enjoyments न not योगे in yoga न not वा or वाजि-राजौ in rows of sacrifices न no कान्ता-मुखे face of beautiful woman न not एव indeed वित्तेषु in the wealth चित्तम् mind, longing मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् as earlier
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ८॥
My mind may not be in the forest, or not on one’s own house, or not on one’s work or not on one’s body, but if the mind is not fixed on the invaluable lotus feet of the Guru, what of that? What of that? What of that? What of that?
Notes: अरण्ये in the forest न not वा or स्वस्य own गेहे house न not कार्ये in the work न not देहे on the body मनः mind वर्तते to be मे my तु then, but अनर्घ्ये invaluable मनः चेत् न लग्नम् गुरोः अङ्घ्रि-पद्मे ततः किम् ततः किम् ततः किम् ततः किम् as ealier
गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ ९ ॥
Whoever of pure body, whose mind is fixed on the Guru’s words, whether an ascetic, king, brahmachari or a householder, reads this stotra of eight verses, attains the desired station that is called Brahman.
Notes: गुरोः of the Guru अष्टकम् consisting of eight parts यः who पठेत् reads पुण्य-देही of pure body
यतिः ascetic भूपतिः king ब्रह्मचारी brahmachari च and गेही householder
लभेत् may attain वाञ्छित-अर्थम् the desired पदम् position, rank, station ब्रह्म-संज्ञम् called the Brahman
गुरोः Guru’s उक्त-वाक्ये uttered words मनः mind यस्य whose लग्नम् fixed
End-note
- There are multiple readings of this stotra. Have used the reading from मन्त्रपुष्पम्, 3rd edition, published by Ramakrishna Math, Khar, Mumbai.
- This stotra has been composed by Sri Shankacharya.